Leave

Adhyātma Rāmāyaṇa · The Return of Sītā and the Ascension of the Puṣpaka

Tap a verse for its meaning

  1. 1
    श्रीमहादेव उवाच ।ततः शक्रः सहस्राक्षो यमश्च वरुणस्तथा ।कुबेरश्च पिनाकी ॥
  2. 2
    ब्रह्मा ब्रह्मविदां श्रेष्ठो मुनिभिः सिद्धचारणैः ।ऋषयः पितरः साध्या गन्धर्वाप्सरसोरगाः ॥
  3. 3
    एते चान्ये विमानाग्र्यैराजग्मुर्यत्र राघवः ।अब्रुवन् परमात्मानं रामं प्राञ्जलयश्च ते ॥
  4. 4
    कर्ता त्वं सर्वलोकानां साक्षी ।वसूनामष्टमोऽसि त्वं रुद्राणां शङ्करो भवान् ॥
  5. 5
    आदिकर्तासि लोकानां ब्रह्मा त्वं ।अश्विनौ घ्राणभूतौ ते चक्षुषी चन्द्रभास्करौ ॥
  6. 6
    लोकानामादिरन्तोऽसि नित्य एकः सदोदितः ।सदा शुद्धः सदा बुद्धः सदा मुक्तोऽगुणोऽद्वयः ॥
  7. 7
    त्वन्मायासंवृतानां त्वं भासि मानुषविग्रहः ।त्वन्नाम स्मरतां राम सदा भासि ॥
  8. 8
    रावणेन हृतं स्थानमस्माकं तेजसा सह ।त्वयाद्य निहतो दुष्टः पुनः प्राप्तं ॥
  9. 9
    एवं स्तुवत्सु देवेषु ब्रह्मा साक्षा ।अब्रवीत्प्रणतो भूत्वा रामं सत्यपथे स्थितम् ॥
  10. 10
    ब्रह्मोवाचवन्दे देवं विष्णुमशेषस्थितिहेतुंत्वामध्यात्मज्ञानिभिरन्तर्हृदि भाव्यम् ।हेयाहेयद्वन्द्वविहीनं परमेकंसत्तामात्रं सर्वहृदिस्थं ॥
  11. 11
    हृदि रुद्ध्वाछित्वा सर्वं संशयबन्धं विषयौघान् ।पश्यन्तीशं यं गतमोहा यतयस्तंवन्दे रामं रत्नकिरीटं रविभासम् ॥
  12. 12
    मायातीतं माधवमाद्यं जगदादिंमानातीतं मोहविनाशं मुनिवन्द्यम् ।योगिध्येयं योगविधानं परिपूर्णंवन्दे रामं रञ्जितलोकं रमणीयम् ॥
  13. 13
    भावाभावप्रत्ययहीनं भवमुख्यैःयोगासक्तैरर्चितपादाम्बुजयुग्मम् ।नित्यं शुद्धं बुद्धमनन्तं प्रणवाख्यंवन्दे रामं वीरमशेषासुरदावम् ॥
  14. 14
    त्वं मे नाथो नाथितकार्याखिलकारीमानातीतो माधवरूपोऽखिलधारी । गम्यो भावितरूपो योगाभ्यासैर्भावितचेतःसहचारी ॥
  15. 15
    त्वामाद्यन्तं लोकततीनां परमीशंलोकानां नो लौकिकमानैरधिगम्यम् ।भक्तिश्रद्धाभावसमेतैर्भजनीयंवन्दे रामं सुन्दरमिन्दीवरनीलम् ॥
  16. 16
    को वा ज्ञातुं त्वामतिमानं गतमानंमायासक्तो माधव शक्तो मुनिमान्यम् ।वृन्दारण्ये वन्दितवृन्दारकवृन्दंवन्दे रामं भवमुखवन्द्यं ॥
  17. 17
    नानाशास्त्रैर्वेदकदम्बैः प्रतिपाद्यंनित्यानन्दं निर्विषयज्ञानमनादिम् ।मत्सेवार्थं मानुषभावं प्रतिपन्नंवन्दे रामं मरकतवर्णं मथुरेशम् ॥
  18. 18
    श्रद्धायुक्तो यः पठतीमं स्तवमाद्यंब्राह्मं ब्रह्मज्ञानविधानं भुवि मर्त्यः ।रामं श्यामं कामितकामप्रदमीशंध्यात्वा ध्याता पातकजालैर्विगतः स्यात् ॥
  19. 19
    श्रुत्वा स्तुतिं लोकगुरोस्वाङ्के समादाय ।विभ्राजमानां विमलारुणद्युतिंरक्ताम्बरां दिव्यविभूषणान्विताम् ॥
  20. 20
    प्रोवाच जगतां रघूत्तमंप्रपन्नसर्वार्तिहरं हुताशनः ।गृहाण देवीं रघुनाथ जानकींपुरा त्वया मय्यवरोपितां वने ॥
  21. 21
    विधाय मायाजनकात्मजां हरेदशाननप्राणविनाशनाय च ।हतो दशास्यः सह पुत्रबान्धवै-र्निराकृतोऽनेन प्रभो ॥
  22. 22
    तिरोहिता सा कृता यदर्थं कृतकृत्यतां गता ।ततोऽतिहृष्टां परिगृह्य जानकींरामः प्रहृष्टः प्रतिपूज्य पावकम् ॥
  23. 23
    स्वाङ्के समावेश्य सदाऽनपायिनींश्रियं त्रिलोकीजननीं श्रियः पतिः ।दृष्ट्वाथ रामं जनकात्मजायुतंश्रिया स्फुरन्तं सुरनायको मुदा ।भक्त्या समेत्यकृताञ्जलिः स्तोतुमथोपचक्रमे ॥
  24. 24
    इन्द्र उवाच ।भजेऽहं सदा राममिन्दीवराभंभवारण्यदावानलाभाभिधानम् ।भवानीहृदा भावितानन्दरूपंभवाभावहेतुं भवादिप्रपन्नम् ॥
  25. 25
    सुरानीकदुःखौघनाशैकहेतुंनराकारदेहं निराकारमीड्यम् ।परेशं परानन्दरूपं वरेण्यंहरिं राममीशं भजे भारनाशम् ॥
  26. 26
    प्रपन्नाखिलानन्ददोहं प्रपन्नंप्रपन्नार्तिनिःशेषनाशाभिधानम् ।तपोयोगयोगीशभावाभिभाव्यंकपीशादिमित्रं भजे राममित्रम् ॥
  27. 27
    सदा भोगभाजां सुदूरे विभान्तंसदा योगभाजामदूरे विभान्तम् ।चिदानन्दकन्दं सदा राघवेशंविदेहात्मजानन्दरूपं प्रपद्ये ॥
  28. 28
    विशेषानुयुक्तोविभासीश ।त्वदानन्दलीलाकथापूर्णकर्णाःसदानन्दरूपा भवन्तीह लोके ॥
  29. 29
    अहं मानपानाभिमत्तप्रमत्तोन वेदाखिलेशाभिमानाभिमानः ।इदानीं भवत्पादपद्मप्रसादात्त्रिलोकाधिपत्याभिमानो विनष्टः ॥
  30. 30
    स्फुरद्रत्नकेयूरहाराभिरामंधराभारभूतासुरानीकदावम् ।शरच्चन्द्रवक्त्रं लसत्पद्मनेत्रंदुरावारपारं भजे राघवेशम् ॥
  31. 31
    सुराधीशनीलाभ्रनीलाङ्गकान्तिंविराधादिरक्षोवधा ।किरीटादिशोभं पुरारातिलाभंभजे रामचन्द्रं रघूणामधीशम् ॥
  32. 32
    लसच्चन्द्रकोटिप्रकाशादिपीठेसमासीनमङ्के समाधाय सीताम् ।स्फुरद्धेमवर्णां तडित्पुञ्जभासांभजे रामचन्द्रं ॥
  33. 33
    ततः प्रोवाच भगवान् भवान्या सहितो ।रामं कमलपत्राक्षं विमानस्थो नभःस्थले ॥
  34. 34
    आगमिष्याम्ययोध्यायां द्रष्टुं त्वां ।इदानीं पश्य पितरमस्य देहस्य राघव ॥
  35. 35
    ततोऽपश्यद्विमानस्थं रामो दशरथं पुरः ।ननाम शिरसा पादौ मुदा भक्त्या ॥
  36. 36
    आलिङ्ग्य रामं दशरथोऽब्रवीत् ।तारितोऽस्मि त्वया वत्स संसाराद्दुःखसागरात् ॥
  37. 37
    इत्युक्त्वा पुनरालिङ्ग्य ययौ रामेण ।रामोऽपि देवराजं तं दृष्ट्वा प्राह ॥
  38. 38
    मत्कृते निहतान् सङ्ख्ये वानरान् पतितान् भुवि ।जीवयाशु ममाज्ञया ॥
  39. 39
    तथेत्यमृतवृष्ट्या तान् जीवयामास वानरान् ।ये ये मृता मृधे पूर्वं ते ते सुप्तोत्थिता इव ।पूर्ववद्बलिनो हृष्टा रामपार्श्वमुपाययुः ॥
  40. 40
    नोत्थिता राक्षसास्तत्र पीयूषस्पर्शनादपि ।विभीषणस्तु साष्टाङ्गं प्रणिपत्याब्रवीद्वचः ॥
  41. 41
    देव मामनुगृह्णीष्व मयि भक्तिर्यदा तव ।मङ्गलस्नानमद्य त्वं कुरु सीतासमन्वितः ॥
  42. 42
    सह भ्रात्रा श्वो गमिष्यामहे वयम् ।विभीषणवचः श्रुत्वा रघूत्तमः ॥
  43. 43
    सुकुमारोऽतिभक्तो मे भरतो मामवेक्षते । स ॥
  44. 44
    कथं तेन स्नानमलङ्कारादिकं मम ।अतः सुग्रीवमुख्यांस्त्वं शु विशेषतः ॥
  45. 45
    कपीन्द्रेषु पूजितोऽहं न संशयः ।इत्युक्तो राघवेणाशु च ॥
  46. 46
    ववर्ष राक्षसश्रेष्ठो यथाकामं ।ततस्तान् पूजितान् दृष्ट्वा रामो रत्नैश्च यूथपान् ॥
  47. 47
    यथान्यायं विससर्ज हरीश्वरान् ।विभीषणसमानीतं पुष्पकं ॥
  48. 48
    आरुरोह ततो रामस्तद्विमानमनुत्तमम् ।अङ्के निधाय वैदेहीं लज्जमानां यशस्विनीम् ॥
  49. 49
    लक्ष्मणेन सह भ्रात्रा विक्रान्तेन ।अब्रवीच्च विमानस्थः श्रीरामः सर्ववानरान् ॥
  50. 50
    सुग्रीवं हरिराजं च अङ्गदं च विभीषणम् ।मित्रकार्यं कृतं सर्वं भवद्भिः सह वानरैः ॥
  51. 51
    मया सर्वे यथेष्टं गन्तुमर्हथ । प्रतियाह्याशु किष्किन्धां सर्वसैनिकैः ॥
  52. 52
    स्वराज्ये वस लङ्कायां मम भक्तो ।न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः ॥
  53. 53
    गन्तुमिच्छामि राजधानीं पितुर्मम ।एवमुक्तास्तु रामेण वानरास्ते ॥
  54. 54
    ऊचुः सर्वे राक्षसश्च विभीषणः ।अयोध्यां गन्तुमिच्छामस्त्वया सह ॥
  55. 55
    दृष्ट्वा त्वामभिषिक्तं तु च ।पश्चाद्वृणीमहे राज्यमनुज्ञां देहि नः ॥
  56. 56
    रामस्तथेति सुग्रीव वानरैः सविभीषणः । सहनूमांश्च शीघ्रमारोह ॥
  57. 57
    ततस्तु पुष्पकं सुग्रीवः सह सेनया ।विभीषणश्च सामात्यः सर्वे चारुरुहु ॥
  58. 58
    तेष्वारूढेषु सर्वेषु कौबेरं ।राघवेणाभ्यनुज्ञातमुत्पपात ॥
  59. 59
    बभौ तेन हंसयुक्तेन भास्वता ।प्रहृष्टश्च तदा राम इवापरः ॥
  60. 60
    ततो बभौ कुबेरयानं ।रामेण शोभां नितरां प्रपेदेसीतासमेतेन सहानुजेन ॥